Sukta 170
Mandala 1 · 5 rks
5 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति
Rk 2
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः
Rk 3
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि
Rk 4
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै
Rk 5
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑