Sukta 120
Mandala 1 · 12 rks
12 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ क॒था वि॑धा॒त्यप्र॑चेताः
Rk 2
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः नू चि॒न्नु मर्ते॒ अक्रौ॑
Rk 3
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य प्रार्च॒द्दय॑मानो यु॒वाकुः॑
Rk 4
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः
Rk 5
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् प्रैष॒युर्न वि॒द्वान्
Rk 6
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् आक्षी शु॑भस्पती॒ दन्
Rk 7
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः
Rk 8
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः स्त॒ना॒भुजो॒ अशि॑श्वीः
Rk 9
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑
Rk 10
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः तेना॒हं भूरि॑ चाकन
Rk 11
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ सो॒म॒पेयं॑ सु॒खो रथः॑
Rk 12
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ उ॒भा ता बस्रि॑ नश्यतः