Sarga 7
Bala Kanda
24 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥''' तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः
Verse 2
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः
Verse 3
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्
Verse 4
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे
Verse 5
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः
Verse 6
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः । विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः
Verse 7
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः । कीर्तिमन्तः प्रणिहिता यथावचनकारिणः
Verse 8
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः
Verse 9
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्
Verse 10
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि
Verse 11
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न हिंस्युरविदूषकम्
Verse 12
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्
Verse 13
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्
Verse 14
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्
Verse 15
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः । प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत्
Verse 16
सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः । हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा
Verse 17
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः । विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः
Verse 18
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः । सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः
Verse 19
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः
Verse 20
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम्
Verse 21
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्
Verse 22
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्
Verse 23
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा
Verse 24
तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै- ::र्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्त- ::स्तेजोमयैर्गोभिरिवोदितोऽर्कः