Lipi
Sign in
Classic reading room ↗

Sarga 39

Bala Kanda

26 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥''' विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम्

  2. Verse 2

    श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्

  3. Verse 3

    तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव

  4. Verse 4

    श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः

  5. Verse 5

    विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम

  6. Verse 6

    स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः

  7. Verse 7

    अंशुमानकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः

  8. Verse 8

    राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः

  9. Verse 9

    उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते

  10. Verse 10

    हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः

  11. Verse 11

    तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् । सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः

  12. Verse 12

    षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः

  13. Verse 13

    मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः

  14. Verse 14

    समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ । एकैकं योजनं पुत्रा विस्तारमभिगच्छत

  15. Verse 15

    यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया

  16. Verse 16

    दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम्

  17. Verse 17

    ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः

  18. Verse 18

    गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः

  19. Verse 19

    शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन

  20. Verse 20

    नागानां वध्यमानानामसुराणां च राघव । राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत्

  21. Verse 21

    योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं राम रसातलमनुत्तमम्

  22. Verse 22

    एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः

  23. Verse 23

    ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन्

  24. Verse 24

    ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः

  25. Verse 25

    भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः बहवश्च महात्मानो वध्यन्ते जलचारिणः

  26. Verse 26

    अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते । इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः