Lipi
Sign in
Classic reading room ↗

Sarga 37

Bala Kanda

32 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन्

  2. Verse 2

    ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः

  3. Verse 3

    येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया

  4. Verse 4

    यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः

  5. Verse 5

    देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्

  6. Verse 6

    शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः

  7. Verse 7

    इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम्

  8. Verse 8

    ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः

  9. Verse 9

    तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन्

  10. Verse 10

    ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः

  11. Verse 11

    देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज

  12. Verse 12

    देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम्

  13. Verse 13

    इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत

  14. Verse 14

    समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन

  15. Verse 15

    तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम्

  16. Verse 16

    दह्यमानाग्निना तेन सम्प्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः

  17. Verse 17

    इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्

  18. Verse 18

    उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम्

  19. Verse 19

    काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत

  20. Verse 20

    मलं तस्याभवत् तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत

  21. Verse 21

    निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम्

  22. Verse 22

    जातरूपमिति ख्यातं तदाप्रभृति राघव । सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्

  23. Verse 23

    तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन्

  24. Verse 24

    ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः

  25. Verse 25

    ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः

  26. Verse 26

    तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्

  27. Verse 27

    स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम्

  28. Verse 28

    प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः

  29. Verse 29

    गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः

  30. Verse 30

    सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः

  31. Verse 31

    एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च

  32. Verse 32

    भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत्