Lipi
Sign in
Classic reading room ↗

Sarga 34

Bala Kanda

23 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्

  2. Verse 2

    इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा

  3. Verse 3

    पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्

  4. Verse 4

    एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्

  5. Verse 5

    कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः

  6. Verse 6

    स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन

  7. Verse 7

    पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता

  8. Verse 8

    सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी

  9. Verse 9

    दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम

  10. Verse 10

    ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन

  11. Verse 11

    सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता पतिव्रता महाभागा कौशिकी सरितां वरा

  12. Verse 12

    अहं हि नियमाद्राम हित्वा तां समुपागतः सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा

  13. Verse 13

    एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि

  14. Verse 14

    गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः

  15. Verse 15

    निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन

  16. Verse 16

    शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६

  17. Verse 17

    उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः । ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया

  18. Verse 18

    नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥

  19. Verse 19

    एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्

  20. Verse 20

    कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः

  21. Verse 21

    विशेषेण भवानेव विश्वामित्र महायशः । कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव

  22. Verse 22

    मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान्

  23. Verse 23

    रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते