Lipi
Sign in
Classic reading room ↗

Sarga 29

Bala Kanda

32 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 2

    इह राम महाबाहो विष्णुर्देवनमस्कृतः । वर्षाणि सुबहूनीह तथा युगशतानि च

  2. Verse 10

    एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा

  3. Verse 11

    देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्

  4. Verse 12

    तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्

  5. Verse 13

    शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः

  6. Verse 14

    तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् । वरं वरय भद्रं ते वरार्होऽसि मतो मम

  7. Verse 15

    तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् । अदित्या देवतानां च मम चैवानुयाचितम्

  8. Verse 16

    वरं वरद सुप्रीतो दातुमर्हसि सुव्रत । पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ

  9. Verse 17

    भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि

  10. Verse 25

    स त्वं सुरहितार्थाय मायायोगमुपाश्रितः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्

  11. Verse 25

    ये चैनमभिवर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति

  12. Verse 25

    बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम्

  13. Verse 25

    यज्ञं चकार सुमहानसुरेन्द्रो महाबलः । बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः । समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे

  14. Verse 25

    निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् । कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः

  15. Verse 25

    सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः । एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः

  16. Verse 25

    तपश्चरणयोगार्थमुवास सुमहातपाः । एष पूर्वाश्रमो राम वामनस्य महात्मनः

  17. Verse 25

    प्रशुची परमं जाप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्

  18. Verse 25

    अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति । सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः

  19. Verse 25

    अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत्

  20. Verse 25

    त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् । आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः

  21. Verse 25

    महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा । त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः

  22. Verse 25

    तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः । मयापि भक्त्या तस्यैव वामनस्योपभुज्यते

  23. Verse 25

    एनमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः

  24. Verse 25

    अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद् यथा मम

  25. Verse 25

    इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । प्रविशन्नाश्रमपदं व्यरोचत महामुनिः । शशीव गतनीहारः पुनर्वसुसमन्वितः

  26. Verse 25

    तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः । उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्

  27. Verse 25

    यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्

  28. Verse 25

    मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ

  29. Verse 25

    अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव

  30. Verse 25

    एवमुक्तो महातेजा विश्वामित्रो महानृषिः । प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः

  31. Verse 25

    अथ तस्याप्रमेयस्य वचनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे

  32. Verse 25

    कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च