Sarga 25
Bala Kanda
22 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्
Verse 2
अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम्
Verse 3
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्
Verse 4
विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम्
Verse 5
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः
Verse 6
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः
Verse 7
ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः
Verse 8
तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्
Verse 9
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत्
Verse 10
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति
Verse 11
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः
Verse 12
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान्
Verse 13
पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते
Verse 14
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम्
Verse 15
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्
Verse 16
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन
Verse 17
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना
Verse 18
नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा
Verse 19
राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते
Verse 20
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्
Verse 21
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता
Verse 22
एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप