Lipi
Sign in
Classic reading room ↗

Sarga 22

Bala Kanda

24 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥''' तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्

  2. Verse 2

    कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्

  3. Verse 3

    स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना

  4. Verse 4

    ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्

  5. Verse 5

    पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि

  6. Verse 6

    विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्

  7. Verse 7

    कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ

  8. Verse 8

    अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ

  9. Verse 9

    तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती

  10. Verse 10

    कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ

  11. Verse 11

    स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे

  12. Verse 12

    रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः

  13. Verse 13

    मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः

  14. Verse 14

    न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन

  15. Verse 15

    त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव

  16. Verse 16

    न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ

  17. Verse 17

    एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ

  18. Verse 18

    क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठस्तात राघव

  19. Verse 19

    गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते

  20. Verse 20

    प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः

  21. Verse 21

    तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः

  22. Verse 22

    प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः

  23. Verse 23

    सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः

  24. Verse 24

    दशरथनृपसूनुसत्तमाभ्यां :::तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्याम् :::सुखमिव सा विबभौ विभावरी च