Lipi
Sign in
Classic reading room ↗

Sarga 14

Bala Kanda

60 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥''' अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत

  2. Verse 2

    ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः

  3. Verse 3

    कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः

  4. Verse 4

    प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः

  5. Verse 5

    अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः

  6. Verse 6

    ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः । मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम्

  7. Verse 7

    तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः

  8. Verse 8

    आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः

  9. Verse 9

    गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम्

  10. Verse 10

    न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे

  11. Verse 11

    न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते । नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा

  12. Verse 12

    ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते

  13. Verse 13

    वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते

  14. Verse 14

    दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकशः

  15. Verse 15

    अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा

  16. Verse 16

    नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः

  17. Verse 17

    अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः

  18. Verse 18

    स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः

  19. Verse 19

    कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि । प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया

  20. Verse 20

    दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः

  21. Verse 21

    नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः

  22. Verse 22

    प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे

  23. Verse 23

    श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा । द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ

  24. Verse 24

    कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्

  25. Verse 25

    एकविंशतियूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलंकृताः

  26. Verse 26

    विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः

  27. Verse 27

    आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि

  28. Verse 28

    इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि

  29. Verse 29

    स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः

  30. Verse 30

    नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः

  31. Verse 31

    शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा

  32. Verse 32

    पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह

  33. Verse 33

    कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विससारैनं त्रिभिः परमया मुदा

  34. Verse 34

    पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद् रजनीमेकां कौसल्या धर्मकाम्यया

  35. Verse 35

    होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्याथ वावातामपरां तथा

  36. Verse 36

    पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः

  37. Verse 37

    धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः

  38. Verse 38

    हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः

  39. Verse 39

    प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य चैकस्य वैतसो भाग इष्यते

  40. Verse 40

    त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्

  41. Verse 41

    उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्

  42. Verse 42

    ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः

  43. Verse 43

    प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्

  44. Verse 44

    उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा

  45. Verse 45

    क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः

  46. Verse 46

    एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम्

  47. Verse 47

    भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने

  48. Verse 48

    रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति

  49. Verse 49

    मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम्

  50. Verse 50

    एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः

  51. Verse 51

    दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु

  52. Verse 52

    ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः

  53. Verse 53

    सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः

  54. Verse 54

    जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम्

  55. Verse 55

    कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः

  56. Verse 56

    प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः

  57. Verse 57

    उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्

  58. Verse 58

    पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा

  59. Verse 59

    कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत तथेति च स राजानमुवाच द्विजसत्तमः भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः

  60. Verse 60

    स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः । जगाम हर्षं परमं महात्मा तमृष्यशृङ्गं पुनरप्युवाच