Sarga 10
Bala Kanda
33 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥''' सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह
Verse 2
रोमपादमुवाचेदं सहामात्यः पुरोहितः उपायो निरपायोऽयमस्माभिरभिचिन्तितः
Verse 3
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च
Verse 4
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्
Verse 5
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः
Verse 6
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा
Verse 7
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने
Verse 8
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात्
Verse 9
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम्
Verse 10
ततः कदाचित् तं देशमाजगाम यदृच्छया विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः
Verse 11
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम् ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्
Verse 12
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् एकस्त्वं विजने घोरे वने चरसि शंस नः
Verse 13
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्
Verse 14
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि
Verse 15
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्
Verse 16
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः
Verse 17
गतानां तु ततः पूजामृषिपुत्रश्चकार ह इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः
Verse 18
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः
Verse 19
अस्माकमपि मुख्यानि फलानीमानि हे द्विज गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम्
Verse 20
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान्
Verse 21
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्
Verse 22
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः
Verse 23
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते
Verse 24
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः
Verse 25
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः
Verse 26
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन्
Verse 27
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम्
Verse 28
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः
Verse 29
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा
Verse 30
वर्षेणैवागतं विप्रं तापसं स नराधिपः प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः
Verse 31
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्
Verse 32
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि शान्तां शान्तेन मनसा राजा हर्षमवाप सः
Verse 33
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया